Chandojñānam

शालिनी

शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः।

माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः।
सर्वस्वं मे रामचन्द्रो दयालुर्
नान्यं‌ जाने नैव जाने न जाने॥
इन्द्रवज्रा

स्यादिन्द्रवज्रा यदि तौस्ततौ गः।

लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम्।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये॥
वसन्ततिलका

उक्ता वसन्ततिलका तभजा जगौ गः।

योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमो भगवते पुरुषाय तुभ्यम्॥
भुजङ्गप्रयात

भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः।

नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोऽहम्।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते॥
पञ्चचामर

जरौ जरौ जगाविदं वदन्ति पञ्चचामरम्।

जटाटवीगलज्जलप्रवाहपावितस्थले
गलेऽवलम्ब्य लम्बितां भुजङ्गतुङ्गमालिकाम्।
डमड्डमड्डमड्डमन्निनादवड्डमर्वयम्
चकार चण्डताण्डवं तनोतु नः शिवः शिवम्॥
शार्दूलविक्रीडित

सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः॥